________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् पीठिका ६१ (B)
मिनु प्रमिणु गोनसं सर्पजातिविशेषम् अङ्गलैः, यथा कियन्त्यङ्ग्लानि अयं गोनसो विद्यते? इति । तथा गण परिसंख्याहि से तस्य गोनसस्य दंष्ट्राः, यदि वा से तस्य चक्कलादि पृष्ठस्योपरि मण्डललक्षणानि गणय, कियन्त्योऽस्य दंष्ट्राः? कियन्ति वाऽस्य पृष्ठस्योपरि चक्कलानि? इत्येतत् गणयित्वा कथयेति भावः। तथा अग्राङ्गल्या अङ्गल्यग्रभागेन व्याघ्रं तुद तोत्रेण व्यथय। तथा 'डिव प्रोल्लङ्यय अवटं कूपम्। एवं प्राणप्रतिलोमं वदति गुरौ सर्वत्राऽनुलोमताविनययुक्तः शिष्यः आममिति भणति । गुरवो : हि सकलजगत्प्राणिवर्गविषयपरमकरुणापरीतचेतसः, ततस्त एव युक्तमयुक्तं वा जानन्ति, किमत्र शिष्यस्य चिन्तया? इति शिष्येण सर्वत्रानुलोमविनयमिच्छना ईदृशमपि गुरुवचनं तथेति प्रतिपत्तव्यमिति ॥ ९५॥ सम्प्रति 'गुत्तिसु य समिईसु य' [गा. ६०] इत्यादि गाथायां यदुक्तं 'पसत्थे य' इति तत्र प्रशस्तग्रहणव्यवच्छेद्यं दर्शयतितत्थ उ पसत्थगहणं परिपिट्टण छेयणाइ वारेइ ।
ओसन्न-गिहत्थाण य उट्ठाणाई य पुव्वुत्ता ॥ ९६ ॥ १. डिप- वा. मो० पु. मु० ॥ २. व्यमिच्छता - वा. मो० पु० मु० ॥ ३. ०ण छिज्जमाइ - वा. मो० पु० जेभा० । खंभा वाभा० ॥
गाथा ९१-९६
कायविनयादिस्वरूपम्
६१ (B)
For Private And Personal Use Only