________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री
व्यवहार
सूत्रम् पीठिका
६० (B)
अतिखरेण विश्रामणायां परितापनसम्भवात् ॥९२॥ अथ विश्रामणायां को गुणः? इत्यत आहवायाई सट्ठाणं, वयंति बद्धासणस्स जे खुभिया । खेयजओ तणुथिरया, बलं च अरिसादओ नेवं ॥ ९३ ॥ वातादयो वात-पित्त-श्लेष्माणो ये बद्धासनस्य सतः क्षुभिताः स्वस्थानात् प्रचलितास्ते स्वस्थानं व्रजन्ति स्वं स्थानं प्रतिपद्यन्ते, ते न विक्रियां भजन्तीति भावः। तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातः तस्य जयः अपगमो भवति। तथा तनोः शरीरस्य स्थिरता दाढ्यं भवति, न विशरारुताभावः। अत एव च बलं शारीरं तदुपष्टम्भतो वाचिकं मानसिकं च। तथा एवं विश्रामणातो वातादीनां स्वस्थानगमने अर्श आदयः अर्शासि वातपित्त-श्लेष्मजानि, आदिशब्दात्तदन्ये च रोगा न उपजायन्ते। एते विश्रामणायां गुणाः, ततः कर्तव्योऽवश्यमनुलोम(प्रतिरूप)कायक्रियाविनयः संस्पर्शनविनयश्च ॥ ९३ ॥
सम्प्रति सर्वत्राऽनुलोमताविनयमाह
गाथा ९१-९६
कायविनयादिस्वरूपम्
६० (B)
१. वातिक - पै (पि-मु०) त्तिक-श्ले० वा. पु० मु० ॥
For Private And Personal Use Only