________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पीठिका
६० (A)
www.kobatirth.org
अद्धाण वायणाए, निच्चासणयाए परिकिलंतस्स । सीसाई जा पाया, किरिया पायादविणओ उ ॥ ९१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अध्वनि मार्गे वाचनायां सूत्राऽर्थप्रदानलक्षणायां नित्याऽऽसनतया निरन्तरोपवेशनतः परिक्लान्तस्य समन्ततः क्लममुपागतस्य क्रिया प्रतिरूपकायक्रिया, विश्रामणेति तात्पर्यार्थः, कर्त्तव्येति वाक्यशेषः । कथं कर्त्तव्या ? इत्यत आह-शीर्षादेर्यावत्पादौ शिरसः आरभ्य क्रमेण तावत् कर्त्तव्या यावत् पादौ । यदि पुनः पादादारभ्य करोति तदा अविनयः, पादादिमलस्य शीर्षादिषु लगनात् ॥ ९१ ॥ अत्रैवापवादमाह -
जत्तो व भाइ गुरू, करेइ किइकम्म मो तओ पुव्वं । संफरिसणविणओ पुण, परिमउयं वा जहा सहइ ॥ ९२ ॥
यतो वा अङ्गादारभ्य गुरुर्भणति ततः पूर्वमारभ्य कृतिक विश्रामणां, मो इति पादपूरणे करोति, तथा च सति पादादप्यारभ्य कुर्वतो नाऽविनयः, गुर्वाज्ञाकारित्वात् उक्तोऽनुलोम (प्रतिरूप) कायक्रियाविनयः । सम्प्रति संस्पर्शनविनयमाह-संफरिसणेत्यादि, संस्पर्शन - विनयः पुनः परिमृदुकं वाशब्दादल्पमृदुकं वा यथा सहते तथा विश्रामणां करोति,
For Private And Personal Use Only
***
गाथा ९१-९६ काय
विनयादिस्वरूपम्
६० (A)