________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ५९ (A)
कृतः प्रसादो यदेवं समादिष्टः' इति एवं ज्ञापनेन स्फीतीकरोति स विनय-विनयवतोरभेदोपचाराद् अनुलोमवचनसहितः प्रतिरूपविनयः। तुशब्दः एवकारार्थः। एवंरूप एवानुलोमवचनसहितः, नाऽन्य इति ॥ ८ ॥
अस्यैव विनयस्य करणे उपदेशमाहचोदयंते परं 'थेरा, इच्छाणिच्छे व तं वई । जुत्ता विणयजुत्तस्स गुरुवक्कऽणुलोमता ॥ ८८ ॥
स्थविराः आचार्यादयः, ते परं शिष्यं चोदयन्ते शिक्षयन्ते तेषां तत्राऽधिकारित्वात्। तत्र तां चोदनात्मिकां वाचं प्रति यदि इच्छा भवति तदादिष्टकार्यकरणाय यदि वा अनिच्छा तथापि विशुद्धान्वयतया विनययुक्तस्य गुरुवाक्याऽनुलोमता आममित्येवं गुरुवाक्योपबृंहणं, गुरुवाक्योपदिष्टकार्यसम्पादकता चेति लक्षणा युक्ता । इयमत्र भावनाजाति-कुलसमन्वितेन विनयमिच्छुना सदैव गुरोनिकटवर्त्तिना भवितव्यं, तत्र यदा गुरुः शिक्षयते तदा तां शिक्षामिच्छता अनिच्छता वाऽवश्यं गुरुवाक्यम् आममिति तथैवेत्येवम् १.थेरो चूर्णी ॥ २. वयं- वाल्मोन्पु० ॥३. यमिच्छता-सा. वा. मो. मु. ॥
गाथा ८५-९० प्रतिरुप
विनय
स्वरुपादि
५९ (A)
For Private And Personal Use Only