________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
द्वितीय: प्रतिरूपकायक्रिया, यथा- परिपाट्या शरीरविश्रामणमित्यर्थः २ । तृतीयः संस्पर्शनविनयः, यथा गुर्वादेः सुखासिकोपजायते तथा मृदुसंस्पर्शनात्मक : संस्पर्शनविनय इति व्यवहार- भावः ३ । चतुर्थः सर्वानुलोमता, सूत्रे सर्वानुलोममिति भावप्रधानो निर्देशः । चः समुच्चये सा च सर्वानुलोमता व्यवहारविरुद्धेऽपि प्राणव्यपरोपणकारिण्यपि वा समादेशे यथाक्रमं तथेति प्रतिपत्तिः, तथैव च कार्यसम्पादनमित्येवंरूपा ॥ ८६ ॥ एतानेव प्रकारान् क्रमेण व्याचिख्यासुः प्रथमतोऽनुलोमवचनसहितत्वं व्याख्यानयति—
सूत्रम्
पीठिका
५८ (B)
अमुगं कीर आमं, ति भणइ अनुलोमवयणसहिओ उ । वयणपसायाईहि य, अभिनंदइ तं वेई गुरुणो ॥ ८७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गाथा
८५-९० प्रतिरुपविनय
इच्छाकारेण भो शिष्य! अमुकं क्रियतामित्येवं गुरुणा सैमादिष्टे यो वचसा आममिति ब्रूते, न केवलं ब्रूते एव, किन्तु गुरोस्तां वाचं वदनप्रसादादिभिः वदनस्य प्रसादेन - मुखस्य स्वरुपादि प्रसन्नतया, आदिशब्दात् उत्फुल्लनयनकमलोऽञ्जलिप्रग्रहादिना च अभिनन्दति 'महान्
१. स्पर्शन प्रत्ये (प्रत्ययि ) कः सं० वा० मो० पु० ॥ २. वयं वा० मो० पु० ॥ ३. समादिष्टेन वचसा खं० ॥ ४. करणतोऽञ्जलिप्रग्रहणादिना खं० ॥
For Private And Personal Use Only
५८ (B)