________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
.
श्री
व्यवहार
सूत्रम् पीठिका ५७ (A)
सर्वत्र सर्वदा न निर्जरार्थं प्रवर्त्तते तथाप्येष ममापि करिष्यति इति कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यम् । तथा चाह- 'कयपडिकिती वि जुज्जइ' इत्यादि, यद्यपि तत् वैयावृत्त्यं सर्वत्र सर्वेषु प्रयोजनेषु निर्जरानिमित्तं न करोति तथापि कृतप्रतिकृतिरपि युज्यते, कृतप्रतिकृतिबुद्ध्यापि वैयावृत्त्यं कर्त्तव्यमिति भावः, साधूनां ज्ञानादिपात्रतया विनयस्थानत्वेन तेषु विनयस्य कल्याणपरम्पराहेतुत्वात् ॥ ८२ ॥
उक्तः कृतप्रतिकृतिरूपो विनयः, साम्प्रतमार्तगवेषणरूपविनयप्रतिपादनार्थमाहदव्वावईमाईसुं, अत्तमणत्ते गवेसणं कुणइ ।। आहारादिपयाणं, छंदम्मि उ छट्ठओ विणओ ॥ ८३ ॥
द्रव्यापदि दुर्लभद्रव्यासम्पत्तौ, तथा च भवति केषुचिद् देशेषु अवन्त्यादिषु दुर्लभं | घृतादिद्रव्यमिति। आदिशब्दात् क्षेत्रादिपरिग्रहः, तत्र क्षेत्रापदि कान्तारादिपतने, कालापदि दुर्भिक्षे, भावापदि गाढग्लानत्वे, आर्त्तस्य पीडितस्य अत्यन्तमसहिष्णुतया अनार्तस्य वा यथाशक्ति यद् गवेषणं करोति, दुर्लभद्रव्यादि सम्पादयति स आर्तगवेषणविनयः। सम्प्रति कालज्ञताविनयप्रतिपादनार्थमाह
गाथा
औपचारिक
विनयस्वरुपम्
५७ (A)
For Private And Personal Use Only