________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका ५६ (B)
एमेव य अनियाणं, वेयावच्चं तु होइ कायव्वं । कयपडिकिती वि जुज्जइ, न कुणइ सव्वत्थ तं जइवि ॥ ८२ ॥
यथा मोक्षाङ्गतया कार्यहेतुको विनयः साधुभिः कर्त्तव्यः, एवमेव मोक्षाङ्गतयैव कृतप्रतिकृतिरूपमपि वैयावृत्त्यम् अनिदानं निदानं-भोगप्रार्थना तद्रहितं भवति कर्त्तव्यम्। अनिदानमिति च विशेषणं "मध्यग्रहणे दण्डादेरिवाद्यन्तयोरपि ग्रहणमिति" न्यायात् पूर्वं : पश्चाच्च द्रष्टव्यम्, तेन सर्वोपि विनयो मोक्षार्थिभिरनिदानः कर्त्तव्यः। अथ कथं |* कृतप्रतिकृतिरूपस्य विनयस्य मोक्षाङ्गता? उच्यते-सुशिष्यो ह्येवं परिभावयति- 'ज्ञान-दर्शनचारित्रलाभैमिनुपकारिणमप्युपकुर्वन्ति भगवन्तोऽमी सूरयस्तस्मादेतेष्ववश्यं विनयः कर्त्तव्यः, "जस्संतियं धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे" [दशवै.९/१/१२] इति वचनात्। एवं च पर्यालोच्य यः क्रियते विनयः स कृतप्रतिकृतिरूपत्वात् कृतप्रतिकृतेर्मोक्षाङ्गत्वाच्चावश्यं कर्तव्य इति । अन्यच्च-उत्सर्गतस्तावत् साधुभिः सर्वं निर्जरार्थं कर्त्तव्यं, केवलं कदाचिदशुभोऽपि भाव उपजायते कर्मगतेर्विचित्रत्वात्, ततोऽशुभभावोदयवशाद् यद्यपि
गाथा औपचारिक विनयस्वरुपम्
५६ (B)
For Private And Personal Use Only