________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ५६ (A)
गुरोः प्रतिगृह्यते, तदनुमता:- तदनुकूलाः तान्, तथा ज्ञात्वा छन्दो गुरोरभिप्रायमनुवर्तमानः व्यवहरति सम्पादयति। एष छन्दोनुवर्त्तिता विनयः ॥ ८० ॥ सम्प्रति कार्यहेतुके विनये परकृतमाक्षेपं मनस्याधाय परिहारमाह
इहपरलोकासंसविमुक्कं, कामं वयंति विणयं तु । मोक्खाहिगारिएसु, अविरुद्धो सो दुपक्खे वि ॥ ८१ ॥
ननु तीर्थकरैर्भगवद्भिरिह-परलोकाऽऽशंसाविप्रमुक्तो विनयः कर्त्तव्यतयोपदिष्टः, ततः । कथं साधूनां कार्यहेतुको विनयः? उच्यते- काममिति अनुमते अवधृते चार्थे, इह अवधृतेऽर्थे, ततोऽऽयमर्थः- यद्यपि नाम इह-परलोकाशंसाविप्रमुक्तं कामं नियमाद्वदन्ति | विनयं तथापि मोक्षाधिकार के]षु मोक्षयोग्येषु मोक्षपथज्ञानदर्शनचारित्रवत्सु इत्यर्थः, सः | कार्यहेतुकोपि विनयः द्वयोः पक्षयोः समाहारो द्विपक्षं, तस्मिन्नपि, साधुवर्गे साध्वीवर्गे चेत्यर्थः, अविरुद्धो न विरोधभाक्। इयमत्र भावना-कार्यहेतुकोपि विनयः खलु संग्रहादिकार्यार्थं, संग्रहादिकार्यं च मोक्षाङ्गमिति, सोपि मोक्षार्थिना कर्त्तव्यः भगवदुपदि | ष्टत्वादिति ॥ ८१॥ सम्प्रति कृतप्रतिकृतविनये तमेवाक्षेपं मनस्याधाय परिहारमाह
गाथा
औपचारिक
विनयस्वरुपम्
५६ (A)
१. अवधृते, ततो - वा. मो० पु० ॥
For Private And Personal Use Only