________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ५५ (B)
गुरुणो ये लाभकंखी, अब्भासे वट्टते सया साहू । आगार-इंगिएहिं, संदिट्ठो व त्ति काऊणं ॥ ७९ ॥
गुरोः अभ्यासे समीपे लाभकाङ्क्षी ज्ञान-दर्शन-चारित्ररूपपरमार्थलाभार्थी सदा साधुः प्रवर्त्तते। किमर्थम्? इत्यत आह-आगारेत्यादि, आकारः नेत्रवक्त्रगतः, इङ्गितं-- चेष्टा, ताभ्यां गुरोरभिप्रायं समवगम्य तत्समीहितं कर्तुं, सन्दिष्टो वा इति यत् किमपि गुरुणा सन्दिष्टः तद्वा कर्तुमिति ॥७९ ॥ सम्प्रति छन्दोनुवर्त्तितामाह
काल-सहावाऽणुमया, आहारुवही-उवस्सया चेव । नाउं ववहरइ तहा, छंदं अणुवत्तमाणो उ ॥ ८० ॥
आहारः पिण्डः, उपधि: कल्पादिः, उपाश्रयः वसतिः, एते कालस्वभावाऽनुमताः इति अनुमतशब्दः प्रत्येकमभिसन्बध्यते, कालानुमताः स्वभावानुमताश्च। तत्र कालानुमता ये यस्मिन् काले सुखहेतुतयाऽनुमताः ते कालानुमताः। प्रकृतिः स्वभावः, सा चार्थादिह १. उ-चूर्णौ ॥ २. काहामि - वाभा० चूर्णौ च ॥ ३. लाभाका. खं ॥ ४. सन्दिष्टं - खं ॥५. अणुयत्त. तिसृष्वपि भाष्यप्रतिषु ॥
गाथा ७५-८० वाचिकमानसिकविनयादि
܀܀܀܀܀܀܀܀܀
५५ (B)
For Private And Personal Use Only