________________
Acharya Shri Railassaga Surya
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् पीठिका
५७ (B)
षष्ठः कालज्ञतालक्षणो विनयः एषः। यदुत छंदम्मि उ इति, तृतीयार्थे सप्तमी, यथा- | 'तिसु तेसु अलंकिया पुहवी' इत्यत्र, ततोऽयमर्थः- छन्दसा गुरूणामभिप्रायेणैव, * तुशब्दस्यैवकारार्थत्वात्, आहारादिप्रदानम्। किमुक्तं भवति ? यद् यस्मै प्रतिभासते तदिङ्गिताकारादिभिरभिज्ञाय आचार्य-ग्लानोपाध्यायप्रभृतीनामकालक्षेपं सम्पादयति, स एष कालज्ञताविनयः ॥ ८३ ॥
उक्तः कालज्ञताविनयः, सम्प्रति सर्वत्राऽनुलोमतालक्षणं विनयमाहसामायारिपरूवण, निद्देसे चेव बहुविहे गुरुणो । एमेयंति तहत्ति य, सव्वत्थऽणुलोमया एसा ॥ ८४ ॥
गुरुणो इत्यत्र कर्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे, किमुक्तं भवति?-इच्छा- 18 मिथ्यादिरूपायां तस्यां तस्यां सामाचार्यां गुरुणा प्ररूप्यमाणायां एवमेतत्, यथा भगवन्तो वदन्ति, नान्यथा इति प्रतिपत्तिः तथा बहुविधे बहुप्रकारे निर्देशे तत्तत्कर्त्तव्यताज्ञापनलक्षणे गुरोः गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनयः ॥ ८४ ॥ उपसंहरन्नाह
गाथा औपचारिक विनयस्वरुपम्
५७ (B)
१.दिप्ररूपणायां तस्यां त• वा• पु०॥
For Private And Personal Use Only