________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पीठिका ५१ (B)
2001
'हिय-मिय-अफरुसभासी, अणुवीईभासि वाइओ विणओ ।। एएसिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ६८ ॥ [द.वै. नि. २२१ अ.चू.]
अत्र भासीशब्दः प्रत्येकमभिसम्बध्यते, हितभाषी, मितभाषी, अपरुषभाषी। हितं परिणामसुन्दरं, तद्भाषते इत्येवंशीलो हितभाषी। मितं परिमिताक्षरं, तद्भाषणशीलो मितभाषी। अपरुषम्- अनिष्ठुरं, तद्भाषणशीलोऽपरुषभाषी, तथा अनुविचिन्त्य-पर्यालोच्य | भाषते इत्येवंशीलोऽनुविचिन्त्यभाषी। एष वाचिको विनयः, अयमपि निर्देशो विनयविनयवतोरभेदोपचारेण, एतेषां तु हितवाक्यादिपदानां चतुर्णामपि विभागं पृथक्प्ररूपणां यथानुपूर्व्या यथावस्थितया आनुपूर्व्या वक्ष्ये ॥ ६८॥ तत्र प्रतिज्ञातं निर्वाहयता प्रथमतो हितभाषिस्वरूपं वक्तव्यं, हितं च द्विविधम्-इहलोके हितं परलोके हितं च। तत्र इहलोकहितप्रतिपादनार्थमाह
वाहिविरुद्धं भुंजइ, देहविरुद्धं च आउरो कुणइ । ___ आयास-अकालचरियादिवारणं एहियहियं तु ॥ ६९ ॥ १. हित-मित-अफरुसवाती-वाभा. चूर्णौ च ॥ २. अणुवितिभासी - वाभा० ॥
गाथा ६५-६९ विनयस्वरुपादि
५१ (B)
For Private And Personal Use Only