________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका
५२ (A)
यः कश्चित् पुरुषो व्याधिग्रस्तो व्याधिविरुद्धं व्याधिं प्रति कोपकारि भुङ्क्ते, तथा य |* आतुरः ग्लानो ग्लानत्वभग्नः सन् देहविरुद्धं देहविनाशकारि करोत्यनशनप्रत्याख्यानादि, तयोर्यद्वारणं, तथा आयासस्य मानातिरेकेण क्रियमाणस्य अकालचर्या रात्रौ पथि गमनम्, आदिशब्दात् कण्टकाकुलादिपथि गमनादिपरिग्रहः। तस्य च यद्वारणमेतद् ऐहिकं हितं, तद्भाषी ऐहिकहितभाषी ॥ ६९॥ सम्प्रति परलोकहितभाषिस्वरूपप्रतिपादनार्थमाह
सामाचारीसीयंतचोयणा उज्जमंतसंसा य । दारुणसहावंतं चिय, वारेइ परत्थहियवादी ॥ ७० ॥
सामाचारी त्रिविधा- ओघसामाचारी, दशविधचक्रवालसामाचारी, पदविभागसामाचारी गाथा च। तस्यां त्रिविधायामपि सामाचार्यां यथायोगं सीदत:- शिथिलीभवतश्चोदना प्रोत्साहकरणं *
वचनविनयसामाचारीसीदच्चोदना। तथा उद्यच्छतः त्रिविधायामपि सामाचार्यां यथाशक्त्युद्यमं कुर्वतः |
स्वरुपम् शंसा-प्रशंसा उपबृंहणमुद्यच्छच्छंसा, चः समुच्चये। परलोकहितभाषणमिति सामर्थ्यात
| ५२ (A)
७०-७४
| १. न्वतं ति य - जे भा० खंभा: । वतं पिय - वामा० ॥
For Private And Personal Use Only