________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ५१ (A)
अंब्भुट्टाणं१ अंजलि,२ आसणदाणं३ अभिग्गह ४ किई य५ ।। सुस्सूसणा६ य अंभिगच्छणा ७ य संसाहणा ८ चेव ॥ ६७ ॥
[तुला द. वै. नि. २२१ अ.चू ] अभ्युत्थानम् अभ्युत्थानाऽर्हे गुर्वादौ समागच्छति एष सामान्यसाधूनां विनयः, अपूर्वं । पुनः समागच्छन्तं दृष्ट्वा सूरिणाऽप्युत्थातव्यम् १। अञ्जलिः प्रश्नादौ, यदि पुनः कथमप्येको हस्तः क्षणिको भवति तदैकतरं हस्तमुत्पाट्य 'नमः क्षमाश्रमणेभ्य' इति वक्तव्यम् २। 'आसनदानं' नाम पीठकाद्युपनयनम् ३। अभिग्रह: गुरुनियोगकरणाऽभिसन्धि:४।। कृतिश्चेति कृतिकर्म, वन्दनमित्यर्थः ५। शुश्रूषणा विधिवदनतिदूराऽऽसन्नतया सेवनम् | ६। अभिगमनमागच्छतः प्रति उद्गमनम् ७। सूत्रे स्त्रीत्वं प्राकृतत्वात् संसाधनं गच्छतोऽनुव्रजनम् ॥ ६७ ॥ सम्प्रति वाग्विनयभेदानाह
गाथा ६५-६९ विनयस्वरुपादि
५१ (A)
१. अब्भुटाणे -तिसृष्वपि भाष्यप्रतिषु चूर्युल्लिखितगाथाप्रतीके च ॥ २. दाणे-तिसृष्वपि भाष्य-प्रतिषु ॥ ३. अणुगच्छणा - इति चूर्णिसम्मतः पाठः, तथा च चूर्णिः - "अणुगच्छणा णाम इंतस्स अब्भुग्गच्छणं" ॥ ४. सम्बन्धः खं ॥
For Private And Personal Use Only