________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् पीठिका ५० (B)
܀܀܀܀܀܀܀܀
विनयवतोः कथञ्चिदव्यतिरेकादष्टविधो भवति ज्ञातव्यः, समिति-गुप्ति-योगभेदात्, तत्र |* समितयः प्रवीचाररूपाः गुप्तयः प्रवीचाराऽप्रवीचाररूपाः। उक्तं च
समिईण य गुत्तीण य, एसो भेदो उ होइ नायव्वो। समिई पयाररूवा गुत्ती पुण उभयरूवा उ॥ [निशीथभाष्य गा. ३६] उक्तश्चारित्रविनयः ॥ ६५॥ सम्प्रति प्रतिरूपविनयप्रतिपादनार्थमाहपडिरूवो खलु विणओ, कायश्वइश्मणे३ तहेव उवयारे४ । अट्ठ चउव्विह दुविहो, सत्तविह परूवणा तस्स ॥६६ ॥ [द. वै. नि. २२१ अ.चू]
प्रतिरूप: उचितः खलु विनयश्चतु प्रकारः, तद्यथा- काये कायनिमित्तः१। एवं | वाचि वाचिक:२। मनसि मानसिक:३। तथा उपचारे-औपचारिक:४। अट्ठ-चउव्विहइत्यादि, अत्र यथासंख्यं पदघटना-कायिको विनयो अष्टविधः, वाचिकश्चतुर्विधः, मानसिको द्विविधः, औपचारिक: सप्तविधः, परूवणा तस्सत्ति तस्य कायिकादिभेद- | भिन्नस्य चतुष्प्रकारस्य प्रतिरूपविनयस्य प्ररूपणा वक्ष्यमाणा ॥ ६६॥ तत्र 'यथोद्देशं निर्देशः' इति न्यायात् प्रथमतः कायिकस्याऽष्टविधस्य प्ररूपणामाह
गाथा ६५-६९ विनयस्वरुपादि
५० (B)
For Private And Personal Use Only