________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ५० (A)
अस्या अक्षरगमनिका ‘अतिशयी' अवध्यादिज्ञानयुक्तः। ऋद्धिग्रहणाद् आमर्पोषध्यादिऋद्धिप्राप्तः आचार्य-वादि-धर्मकथि-क्षपक-नैमित्तिकाः प्रतीताः। विद्याग्रहणाद् विद्यासिद्धः आर्यखपटवत्। 'राजगणसम्मताश्च' इति राजसम्मता मन्त्र्यादयः, गणसम्मता महत्तरादयः। चशब्दाद्दानश्राद्धादिपरिग्रहः। एते 'तीर्थं' प्रवचनं 'प्रभावयन्ति', स्वत: प्रकाशकस्वभावमेव सहकारितया प्रकाशयन्तीति ॥ 'अट्ट'त्ति एवं दर्शनविनयभेदा अष्टौ भवन्ति ॥ ६४ ॥ चारित्रविनयोऽप्यष्टप्रकारः तथा चाह
पणिहाणजोगजुत्तो, पंचहिं समिईहि तिहिं उ गुत्तीहिं । एस उ चरित्तविणओ, अट्ठविहो होइ नायव्वो ॥ ६५ ॥
प्रणिधानं-चेत:स्वास्थ्यं, तत्प्रधाना योगा:- प्रणिधानयोगाः, योगाः- व्यापाराः, तैर्युक्तः | समन्वितः प्रणिधानयोगयुक्तः । अयं च ओघतो अविरतसम्यग्दृष्टिरपि भवति तत आहपञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्यः प्रणिधानयोगयुक्तः एष चारित्रविनयः। विनय
गाथा
६५-६९ विनयस्वरुपादि
५० (A)
१. अयं च यतोऽवि० वा. पु० ॥
For Private And Personal Use Only