________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ४९ (B)
साहम्मियवच्छल्लं आहाराईस होइ सव्वत्थ । आएस-गुरु-गिलाणे तवस्सि-बालाइसु विसेसा ॥१॥७। [निशीथभाष्य गा.२९]
प्रभाव्यते-विशेषतः प्रकाश्यते इति प्रभावना, "णिवे त्यासश्रन्थ [ मलय. कृ.५-७२] इत्यादिना' भावे अनप्रत्ययः। सा चार्थात् प्रवचनस्य। तत्र यद्यपि प्रवचनं शाश्वतत्वात तीर्थकरभाषितत्वाद्वा सुराऽसुरनमस्कृतत्वात्स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाऽधिकः स तेन तत् प्रवचनं प्रभावयति; यथा भगवदार्यवज्रस्वामि प्रभृतिकः। उक्तं च
कामं सभावसिद्धं तु, पवयणं दिप्पते सयं चेव । तहवि य जो जेणऽहिओ, सो तेण पभावए तं तु ॥ [निशीथभाष्य गा.३१] ते च प्रवचनप्रभावका अतिशय्यादयः। उक्तं च"अइसेसि-इडि-धम्मकहि, वादि आयरिय खवग नेमित्ती । विज्जा-राया-गणसम्मया य तित्थं पभावेंति" ॥ [निशीथभाष्य गा.३३]
गाथा ६४ दर्शननिये उदाहरणानि
४९ (B)
१. पभासेंति - खं ।।
For Private And Personal Use Only