________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ४८ (A)
तथा निष्काङ्कितः देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा यदेकं दिगम्बरादिदर्शनं काङ्क्षति, सर्वकाक्षा यत् सर्वाण्यपि दर्शनान्याकाङ्क्षति, न पुनरालोचयति षइजीवनिकायपीडामसत्प्ररूपणां च ।
विचिकित्सा-मतिविभ्रमः, निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः, साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्य सतो ममाऽस्मात्फलं भविष्यति न वा? कृष्यादिक्रियाया उभयथाप्युपलब्धेरिति विकल्परहितः, नह्यविकलोपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते। एतावता अंशेन निःशङ्किताद् भिन्नः। उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यके [हारि. टीका पत्र ८१५] इति यद्वा निर्विद्वज्जुगुप्सः साधुजुगुप्सारहितः । उदाहरणं चात्र-श्रावकदुहिता यथाऽऽवय॑के [हा.टी. पत्र ८१५] इति ३ ।
तथा बालतपस्वितपो-विद्याऽतिशयदर्शनैर्न मूढा स्वभावान्न चलिता दृष्टिः- सम्यग्दर्शनरूपा यस्यासाऽवमूढदृष्टिः। उक्तं च
णेगविहा इड्डीओ, पूर्व परवादिणं च दगृण ।
जस्स न मुज्झइ दिट्ठी, अमूढदिढेि तयं बेंति ॥ १. के एव- वा. मो० पु० मु० ॥
गाथा ६४ दर्शननिये उदाहरणानि
४८ (A)
For Private And Personal Use Only