SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् पीठिका ४७ (B) शङ्कनं शङ्कितं, शङ्का इत्यर्थः, निर्गतं शङ्कितं यस्मादसौ निःशङ्कितः, देश-|* सर्वशङ्कारहित इत्यर्थः । तत्र देशशङ्का-समाने जीवत्वे कथमेको भव्योऽपरस्त्वभव्यः? इति। | सर्वशङ्का प्राकृतनिबद्धत्वात् सकलमेवेदं प्रवचनं परिकल्पितं भविष्यति इति. न पुनरालोचयति, यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवाऽस्तित्वादयः, : अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति। प्राकृतनिबन्धोऽपि बालादिसाधारणः । उक्तं च बाल-स्त्री-मूर्ख-मूढानां, नृणां चारित्रकाक्षिणाम्। अनुग्रहाय तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥ १ ॥ इतश्च न परिकल्पितः, दृष्टेष्टाऽविरुद्धत्वात् । निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नः, दर्शनं प्रति विनीतत्वात्, दर्शनप्राधान्यविवक्षया दर्शनविनय उच्यते। एतेन विनय-8 विनयवतोरभेदमाह, एकान्तभेदे त्वविनयवत इव तत्फलाभावान्मोक्षाभावः। एवं शेषपदेष्वपि भावना कार्या १। गाथा ६४ ज्ञानाविनयदर्शनविनयादि ४७ (B) १. अनुग्रहार्थं - पु. प्रे. ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy