________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ४७ (A)
तथा व्यञ्जनाऽर्थ-तदुभये इति समाहारत्वादेकवचनं, भेदो न कार्य इति वाक्यशेषः।। एतदुक्तं भवति-श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थभेद उभयभेदश्च न कार्य इति। तत्र व्यञ्जनभेदो यथा- 'धर्मो मङ्गलमुत्कृष्टम्' इति वक्तव्ये 'पुण्णं कल्लाणमुक्कोसं' इत्याह। अर्थभेदो यथा 'आवंती केयावंती लोगंसि विप्परामुसंती' इत्यत्र आचारसूत्रे [श्रु १, अ. ५.३.१ सू. १] यावन्तः केचन ‘लोके' अस्मिन् पाषण्डिलोके विपरामृशन्तीति, एवंविधाऽर्थाऽभिधाने अवन्तीजनपदे 'केया' रज्जुः 'वान्ता' कूपे पतिता लोकाः परामृशन्तीत्याह। उभयभेदो द्वयोरपि याथात्म्योपमर्दैन- 'धर्मो मङ्गलमुत्कृष्टो अहिंसा पर्वतमस्तके' इत्यादि, दोषश्चात्र-व्यञ्जनभेदे अर्थभेदः, तदभेदे क्रियाभेदः, क्रियाभेदे च मोक्षाभावः, तदभावे च निरर्थका दीक्षेति ६।७।८। एवं कालादिभेदप्रकारेण अष्टविधः अष्टप्रकारो ज्ञानविनयः॥ ६३ ॥ दर्शनविनयोप्यष्टप्रकारः । तामेवाष्टप्रकार-तामुपदर्शयतिनिस्संकिय? निक्कंखियर, निव्वितिगिच्छा३ अमूढदिट्ठी ४य । उववूह५थिरीकरणे६ वच्छल्ल७पभावणे ८अट्ठ ॥ ६४ ॥
४४४४
गाथा ६४ ज्ञानाविनय
दर्शनविनयादि
४७ (A)
१. वातात् कू• ता० । वाता कू• पु० ॥ २. धम्मो मंगलमुक्कसो अ० ता. ॥
For Private And Personal Use Only