________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्री व्यवहार
सूत्रम् पीठिका ४२ (B)
समितिरहित एव केवलमित्यपि द्रष्टव्यम्। केवलग्रहणमगुप्तत्वमसमितत्वं वैकं केवलं, नत्वगुप्तत्वा-ऽसमितत्वप्रत्ययं प्राणिव्यापादनमापन्न इति प्रतिपादनार्थम् । तथा चाहअप्पहिंसा, अल्पशब्दो अभाववाची, अल्पा नैव काचन प्राणिनो हिंसा अभवदिति शेषः । कथमगुप्तोऽसमितो वा? इत्यत आह- 'सहसा' पदैकदेशे पदसमुदायोपचारात् सहसाकारतोऽनाभोगतो वा। तत्र सहसाकारो नाम
'पुव्वं अपासिऊणं, छूढे पाए कुलिंगयं पासे। न य तरइ नियत्तेउं, जोगं सहसाकरणमेयं ॥ १॥ [तुला. निशीथ भाष्य गा. ९७]
इत्येवंरूपः, अनाभोगः विस्मृतिः। तहियं तु पडिक्कमणमिति तत्र सहसाकारतोऽनाभोगतो वा केवल एवाऽगुप्तत्वे असमितत्वे च सति प्रायश्चित्तं प्रतिक्रमणम्, यदि पुनः ।।
आउट्टित्ति उपेत्य अगुप्तत्वमसमितत्वं वा करोति तदा तत्र प्रायश्चित्तं तपोऽर्ह, न वा दानं | तपस इति गम्यते, कथमदानम्? इतिचेत्, उच्यते -यदि स्थविरकल्पिका उपेत्याऽगुप्तत्वम- 3 | समितत्वं वा मनसा आपन्नास्ततस्तपोहँ प्रायश्चित्तं तेषां न भवति, गच्छनिर्गतानां तु |
गाथा ६१- ६३
ज्ञानविनयादि
४२ (B)
१. कुलिंगए - वा. मो० पु० ॥ २. °सा समापन्ना. वा. मो० पु० मु० ॥
For Private And Personal Use Only