________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका
४२ (A)
[स्थानाङ्ग सूत्र स्था. १० उ. ३ सूत्र ७४९ पत्र ३९९-४०१ । भगवती सूत्र श. २५ उ७ सू. ८०० पत्र ९२०] इत्यादिः, तस्मिन्नपि चाऽक्रियमाणे 'प्रायश्चित्तं प्रतिक्रमणम्,' इह प्रतिरूपग्रहणं ज्ञानादिविनयोपलक्षणं, ततोऽयमर्थ:-ज्ञान-दर्शनचारित्रप्रतिरूपलक्षणचतुष्प्रकारविनयाऽकरणे, इच्छा-मिथ्या-तथाकारादिप्रशस्तयोगाऽकरणे, उपलक्षणमेतत्, आचार्यादिषु मनसा प्रद्वेषादिकरणे, वाचा अन्तरभाषादिकृतौ, कायेन पुरो गमनादौ प्रतिक्रमणं प्रायश्चित्तम्। तथा उत्तरगुणप्रतिसेवनायां वइक्कमे इति मर्यादाकथनं, तेनाऽतिक्रमे व्यतिक्रमे च प्राग्व्याख्यातस्वरूपे, तथा अनाभोगादकृत्यप्रतिसेवने मिथ्यादुष्कृतप्रदानात्मकं प्रतिक्रमणं प्रायश्चित्तमिति गाथासमासार्थः ॥ ६०॥ व्यासार्थं तु भाष्यकृद् व्याचिख्यासुः प्रथमतो 'गुत्तीसु य समिईसु य' इति व्याख्यानयति
केवलमेव अगुत्तो सहसाऽणाभोगतो व अप्पहिंसा । तहियं तु पडिक्कमणं, आउट्टि तवो न वा दाणं ॥ ६१ ॥ एवकारो भिन्नक्रमः, अगुप्त एव गुप्तिरहित एव केवलम्, उपलक्षणमेतत्, तेन ।
गाथा ६१- ६३
ज्ञानविनयादि
४२ (A)
For Private And Personal Use Only