________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् पीठिका
४० (B)
www.kobatirth.org
अन्नं च छाउमत्थो, तहऽन्नहा वा हवेज्ज उवओगो । आलोएंतो ऊहइ, सोउं च वियाणइ सोया ॥ ५८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्यच्च किञ्चान्यद् इत्यर्थः । 'छाद्मस्थिकः ' सामान्यसाधुगत उपयोगः तथा यथावस्थितवस्त्वनुसारी अन्यथा वा विपरीतो भवेत्; आचार्यस्तु मति-मेधाधारणादिगुणसमन्विततया बहुश्रुततया चाऽतिशयज्ञानी, ततः शङ्कितमालोचिते नि:शङ्कितं करोति, तथा यद्यपि गृह्णतः शङ्कितमुपजातं तथापि कदाचिद् आलोचयन् स्वप्रज्ञयापि ऊहते शुद्धमशुद्धं वा स्वयमेव जानाति । यदि वा तदीयामालोचनां श्रुत्वा श्रोताऽप्याचार्यादिकः पूर्वोक्तेन प्रकारेण, यदि वा आचार्यादिकस्य पार्श्वे बहवो लोकाः समागच्छन्ति, बहुभ्यश्च बहु शृण्वन् कदाचित्तमपि विषयं लोकतः श्रुत्वा जा शुद्धमशुद्धं वा, तस्मादालोचयितव्यम् ॥ ५८ ॥ यदुक्तं - गुरूणं अंतिए सिया" [गा. ५६] इति तत्र स्यादित्यस्य व्याख्यानमाह -
१. आचार्यस्त्वतिमेधा० वा० पु० ॥ २. बहुराश्च श्र० खं० ॥
For Private And Personal Use Only
*****
गाथा ५८-६० प्रायश्चित्तस्वरुपम्
४० (B)