________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पीठिका
४० (A)
www.kobatirth.org
चाह -
कश्चिदतीचारस्तथापि यथाविधि गुरुसमक्षमालोचयितव्यम्, अन्यथा सूक्ष्मचेष्टा-निमित्तानां सूक्ष्मप्रमादनिमित्तानां वा क्रियाणां शुद्ध्यभावात् । अन्यच्च निरतिचारोपि यदि गुरोः समक्षं नाऽऽलोचयति, ततोऽविनयो भवति, अशुद्ध[ : ] परिभोगो वा; तथा 'अविकटिते' अनालोचित्ते अविनयो वा अशुद्धो वा परिभोगो भवेत् । आलोचिते तूभयदोषाऽभावः । नन्वविनयदोषाभावः स्यात्, अशुद्धपरिभोगाऽभावः कथम् ? उच्यतेकेनापि साधुना भिक्षा प्रचुरा सत्कार-पुरस्सरा लब्धा, तस्य शङ्कितमुपजातं, किं नामेयं भिक्षा शुद्धाऽशुद्धा वा ? तत्र यद्यनालोच्य भुङ्क्ते ततोऽशुद्धपरिभोगो भवति, तेन चाऽऽलोचितम्, आचार्येण पृष्टम्- 'अन्यदिवसेषु तस्मिन् गृहे कीदृशी भिक्षा अलभ्यत ? कियन्तो वा भोजनकारिणः ? प्राघूर्णका वा केप्यागता: ? संखडी वा जाता: ?' इत्यादि विभाषा । एवं च पृष्टे तेन यथावस्थितं कथितं, तत आचार्येण ज्ञाता शुद्धा अशुद्धा वा, तस्मादालोचयितव्यम् ॥ ५७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
****
गाथा ५८-६०
प्रायश्चित्तस्वरुपम्
४० (A)