________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ३९ (A)
'जोगो विरियं थामो, उच्छाह परक्कमो तहा चेट्ठा ।
सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया ॥ १ ॥' [पञ्चसंग्रह गा. ३९६] इतिवचनात् । ते चाऽवश्यकर्त्तव्या इमे-कूर्म इव वसतौ संलीनगात्रः सुप्रणिहितपाणिपादोऽवतिष्ठते, वचनमपि सत्यमसत्यामृषं वा ब्रूते, नाऽसत्यम्, नापि सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्योदीरणम्, एवंरूपेषु करणीयेषु योगेषु सम्यगुपयुक्तस्य निरतिचारस्येति वाक्यशेषः, सातिचारस्योपरितनप्रायश्चित्तसम्भवात्। छद्मस्थस्य परोक्षज्ञानिनः, न तु केवलज्ञानिनः, तस्य कृतकृत्यत्वेनाऽऽलोचनाया अयोगात्, उक्तं चछउमत्थस्स हवइ आलोयणा, न केवलिणो [व्यवहार-चूर्णा-वस्मिन्नेव स्थाने] इति । |* तथा सूत्रोक्तेन प्रकारेण भिक्षते इत्येवंशीलो भिक्षुस्तस्य यतेरालोचना प्रायश्चित्तं स्यात्, तदपि च 'गुरूणामन्तिके' समीपे नाऽन्येषामिति ॥५६॥ इह 'करणीया योगाः' इति सामान्येनोक्तम्। अधुना नामग्राहं करणीययोगप्रतिपादनार्थमाह
गाथा ५६-५७ प्रायश्चित्तस्थानानि
३९ (A)
१. तहा दिट्ठा- वा. मो० पु० ॥
For Private And Personal Use Only