________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका ३८ (B)
गतमालोचनेति द्वारम्-अधुना 'कस्य सकाशे आलोचना कर्तव्या?' [गा.५४] इतिद्वारं विवरीषुराह सा आलोयणा उ इत्यादि। सा आलोचना नियमादवश्यन्तया 'गीतमिति' प्राकृतत्वात् षठ्यर्थे प्रथमा, तस्य गीतार्थस्य सकाशे कर्तव्या, नाऽगीतार्थस्य। अत्रैव मतान्तरमाह- 'अगीए य केसिं चि' केषाञ्चिदाचार्याणामिदं मतम्-उत्सर्गतस्तावदाचार्यस्य समीपे आलोचयितव्यं, यदा पुनराचार्यः संज्ञादिप्रयोजनगतो भवति तदा अगीतार्थस्यापि समीपे भिक्षाद्यालोचनीयमिति ॥ ५५ ॥ तच्चालोचनाऽहप्रायश्चित्तमेतेषु स्थानेषु भवति
करणिज्जेसु उं जोगेसु, छउमत्थस्स भिक्खुणो । आलोयणपच्छित्तं, गुरूणं अंतिए सिया ॥ ५६ ॥
करणीया नाम अवश्यकर्त्तव्याः योगा:-श्रुतोपदिष्टाः संयमहेतवः क्रियाः। अथवा | योगा:- मनोवाक्काय-व्यापाराः।
गाथा ५६-५७ प्रायश्चित्तस्थानानि
३८ (B)
१. य-खं
॥
For Private And Personal Use Only