________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
व्यवहार
सूत्रम् पीठिका ३८ (A)
प्रायश्चित्ते नास्ति विकटना आलोचना, तथाहि- सहसाऽनाभोगतो वा यदा किञ्चिदाचरितं भवति, यथा मनोज्ञेषु शब्दादिष्विन्द्रियगोचरमागतेषु रागगमनम्, अमनोज्ञेषु द्वेषगमनं, तदा | तदनन्तरमेव 'मिथ्या दुष्कृतम्' इति ब्रूते, तच्च तेनैव शुद्धिं यातीति नाऽऽलोचयति। वा उ विवेगित्ति वाशब्दो विभाषायां विवेके विवेकाऽर्हे प्रायश्चित्ते आलोचनाया विभाषा, कदाचिद् भवति कदाचिन्न भवतीति भावः। तथाहि-तद् विवेकाऽहँ नाम प्रायश्चित्तं यत् परिस्थापनया शुद्ध्यति, तत्र यदकल्पिकमाधाकर्मिकादि-पूर्वमविदितत्वेन गृहीतं, पश्चाच्च कथमपि ज्ञातं, तद् यदा परिस्थापयतः शुभभावनाऽध्यारोहे केवलज्ञानमुत्पद्यते तदाऽसौ कृतकृत्यो जात इति नाऽऽलोचयति, अनुत्पन्ने तु ज्ञानाऽतिशये नियमादागत्य गुरुसमीपमालोचयतीति। 'तहा विउस्सग्गे' त्ति यथा विवेके आलोचनाया विभाषा तथा व्युत्सर्गेऽपि। किमुक्तं भवति?- व्युत्सर्गेऽपि कदाचिदालोचना भवति कदाचिद् न भवति, यथा-स्वप्ने हिंसादिकमासेवितं, तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः, तदनन्तरं च शुभभावनाप्रकर्षतः केवलज्ञानमुदपादि मरणं वा तस्याऽऽकस्मिकमुपजातमिति नास्त्यालोचना; अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यके विकटयन् आलोचयति यथा स्वप्ने मया हिंसादिकमासेवितं कायोत्सर्गेण च शोधितमिति । १. चनायां - मु० ॥ २. श्यकं वि० वा. मो० पु० ॥
गाथा ५६-५७ प्रायश्चित्त
स्थानानि
३८ (A)
For Private And Personal Use Only