________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका
३५ (A)
चोएइ किमुत्तरगुणा पुव्वं ? बहुअ-थोवग-लहुयं च । अतिसंकिलिट्ठभावो, मूलगुणे सेवते पच्छा ॥ ५१ ॥
'चोदयति' प्रश्नयति शिष्यः, यथा- किमुत्तरगुणा उत्तरगुणप्रतिसेवना पूर्वमुक्ता? 'यथोद्देशं निर्देश' इति न्यायाद्धि पूर्वं मूलगुणप्रतिसेवना वक्तुमुचितेति भावः। अत्रोत्तरमाहबहवः उत्तरगुणाः, स्तोका मूलगुणाः, तथा 'लघु' शीघ्रमुत्तरगुणानां सेवकः प्रतिसेवकः, ततो ऽतिसंक्लिष्टभावः सन् पश्चात् मूलगुणान् सेवते प्रतिसेवते इति ख्यापनार्थ विपर्ययेणोपन्यासः ॥ ५१॥ इह प्रायश्चित्तं मुख्यवृत्त्या विशोधिः, तथा च-अपराधं विधाय विशुद्धमनसो गुरुसमक्षं वदन्ति- भगवन्! अमुकस्याऽपराधस्य प्रयच्छत प्रायश्चित्तमिति'। कदाचित् प्रतिसेवनाप्युपचारात् प्रायश्चित्तं, तथा च-अपराधे कृते वक्तारो भवन्ति 'समापतितमस्माकमद्य प्रायश्चित्तमिति' ॥ ५१ ॥ तत्र यथोपचारतः प्रतिसेवना प्रायश्चित्तमुच्यते, तथोपपादयन्नाह
गाथा ५०-५३ नयस्वस्मपादि
३५ (A)
१. नास्तीयं गाथा चूर्णी । चोएइ किमुत्तरगुणा ? पुव्वं बहुधा अ सेवग लहुं वा - वा. मो• पु० ॥ २. सेवओ - जेभा खंभा० ॥ ३. मुख्यतया वि० वा. पु० ॥
For Private And Personal Use Only