________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ३४ (B)
संकप्पाईतितयं, अविसुद्धाणं तु होइ उ नयाणं । इयरे बाहिरवत्थु, नेच्छंताऽऽया जतो हिंसा ॥ ५० ॥
इह सङ्कल्पशब्देन संरम्भ उपलक्ष्यते, पर्यायत्वात्, ततः सङ्कल्पादित्रितयम् इति : कोऽर्थः? संरम्भादित्रितयं संरम्भसमारम्भाऽऽरम्भलक्षणम् अविशुद्धानामेव 'तुः' एवकारार्थः, भवति नयानां मतेन ज्ञातव्यमिति शेषः, व्यवहारपरतया तेषां मतेन त्रितयस्यापि सम्भवात्। 'इतरे' शुद्धा ऋजुसूत्रादयो हिंसाविचारप्रक्रमे 'बाह्यं वस्तु नेच्छन्ति', नाऽभ्युपगच्छन्ति, न बाह्यवस्तुगतां हिंसामनुमन्यन्ते इति भावः। यतस्तन्मतेन आत्मैव तथाध्यवसायपरिकलितो हिंसा, न बाह्यमनुष्यादिपर्यायविनाशम्, आया चेव उ हिंसा [ओघनि. गा.७५५] इति वचनात्। ततः संरम्भ एव हिंसा, न समारम्भो नाप्यारम्भ इति न शुद्धनयानां संरम्भादित्रितयम् ॥५०॥ साम्प्रतमस्यामेव 'सा पुण अतिक्कमे' [गा. ४२] इत्यादिकायां गाथायां यद् मूलोत्तरगुणप्रतिसेवनयोर्विपर्ययेणोपन्यसनमकारि तत्र कारणमाक्षेपपुरस्सरमुपन्यस्यन्नाह१. गाथेयं तिसृष्वपि भाष्यप्रतिषु "वेणइए मिच्छत्तं" (४८) गाथायाः पूर्वमुपलभ्यते ॥ २. प्यादीतिययंजेभा० वा. मो० ॥ ३. वनाया विप० वा० भो० पु० मु० ॥
गाथा ५०- ५३ नयस्वस्मपादि
३४ (B)
For Private And Personal Use Only