________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ३४ (A)
व्यवहारप्रधानो नयो व्यवहारनयः, तस्य मतेन आत्मा शुभमशुभं वा कर्म कृत्वा तस्य फलं भवान्तरे समनुभवति, अनुयायिद्रव्याऽभ्युपगमात्। इति एतस्मात्कारणाद्वैनयिके मिथ्यादृष्टौ मिथ्यात्वाऽपगमाय कथनं सद्धर्मोपदेशः, तत्परिणतौ च मिथ्यात्वापगम इति मिथ्यात्वशोधकत्वात् ते त्रयोऽपि व्यवहारनयाः शुद्धाः । विसेसणे मा हु मिच्छत्तं इति, विशिष्यते-परस्परं पर्यायजातं भिन्नतया व्यवस्थाप्यते अनेनेति विशेषणं-ऋजुसूत्रादिनयः, तस्मिन् प्ररूप्यमाणे कृतविप्रणाशादिदोषाशङ्कातोऽधिकतरं मा जन्तवो मिथ्यात्वं यासुरिति, नैतन्मतानुसारेण वैनयिके सद्धर्मदेशनाप्रवृत्तिः, तदभावाच्च न मिथ्यात्वशुद्धिरिति न ते शुद्धाः ॥ ४९ ॥ सम्प्रति द्वितीयव्याख्यानमधिकृत्य शुद्धाऽशुद्धनयप्ररूपणां क्रियतेनैगम-संग्रह-व्यवहाररूपा आदिमास्त्रयो नंया न शुद्धाः, व्यवहाराभ्युगमपरत्वात् । उपरितनास्तु चत्वारः शुद्धाः, नैश्चयिकत्वात्। तदेतत् शुद्धाऽशुद्धनयलक्षणमधिकृत्य यत्प्राग् द्वितीयं व्याख्यानं कृतं तच्च 'सव्वनयाणं असुद्धाणं' [गा.४६]इति' ॥ तत्प्रदर्शयन्नाह
गाथा ५०- ५३ नयस्वस्मपादि
३४ (A)
१. ति न तन्म० वा. मो. मु० ॥ २. नया अशुद्धाः, व्यवहारा (रम मु.)भ्युपगम० वा. मो० पु० मु०॥
For Private And Personal Use Only