________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पीठिका ३३ (B)
व्यवहारनया एव तुरेवकारार्थः। नैगम-संग्रह-व्यवहाराः शोधयन्ति अपनयन्ति। ते ह्यनुयायिद्रव्याऽभ्युपगमपराः, ततः कृतकर्मफलोपभोगोपपत्तेः सद्धर्मदेशनादौ प्रवृत्तियोगतो भवति तात्त्विकी शुद्धिः, तस्मात्त एव शुद्धाः, भइयव् होइ इयरेहिंति, इतरैः ऋजुसूत्रादिभिर्नयैर्मिथ्यात्वशोधिमधिकृत्य भजनीयं, न शुद्ध्यतीति भावः । ते हि पर्यायमात्रमभ्युपगच्छन्ति, पर्यायाणां च परस्परमात्यन्तिकं भेदं, ततः कृतविप्रणाशादिदोषप्रसङ्गः। तथाहि-मनुष्येण कृतं कर्म किल देवो भुङ्क्ते, मनुष्यावस्थातश्च देवावस्था भिन्ना, ततो मनुष्यकृतकर्मविप्रणाशः, मनुष्येण सता तस्योपभोगाऽभावात्; देवस्य च फलोपभोगेऽकृताभ्यागमः, देवेन सता तस्य कर्मणोऽकरणात्। कृतविप्रणाशादिदोषपरिज्ञाने च न कोऽपि धर्मश्रवणे अनुष्ठाने वा प्रवर्त्तते, इति मिथ्यात्वशुद्ध्यभावः, तदभावाच्च न ते शुद्धा इति ॥४८॥ एतदेव स्पष्टतरं विभावयिषुराह
ववहारनयस्साऽऽया कम्मं काउं फलं समणुहोइ ।
इय वेणइए कहणं, विसेसणे मा हु मिच्छत्तं ॥ ४९ ॥ १. प्रवर्तेत - मो० वा. मु० ॥
गाथा ४५-४९
सङ्कल्यादि
स्वरुपम्
३३ (B)
For Private And Personal Use Only