________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
पीठिका
३२ (B)
www.kobatirth.org
आरम्भः । आह च चूर्णिकृत् - पाणाइवायं करोमीति जो संकष्पं करेइ चिंतयतीत्यर्थः स संरंभे वट्टइ, परितावणं करेइ समारंभे वट्टइ, उद्दवेइ आरम्भे वट्टइ इति । एतच्च संरम्भादित्रितयं सर्वनयानामपि शुद्धानां सम्मतम्, अथवा 'सुद्धाणं' इत्यत्र प्राकृतत्वात् पूर्वस्याकारस्य लोपो द्रष्टव्यः, ततोऽयमर्थः- सर्वनयानामप्यशुद्धानामेतत् संरम्भादि त्रितयं सम्मतं, न तु शुद्धानामिति ॥ ४६ ॥ अथ के नयाः शुद्धाः ? के वाऽशुद्धाः ? इति शुद्धाशुद्धयप्रतिपादनार्थमाह
सव्वे वि होंति सुद्धा, नत्थि असुद्धो नयो उट्ठाणे । पुव्वा व पच्छिमणं सुद्धा न उ पच्छिमा तेसिं ॥ ४७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नयाः सप्त तद्यथा - नैगमः १ संग्रहो२ व्यवहार : ३ ऋजुसूत्रः ४ शब्द: ५ समभिरूढ ६ एवम्भूत इति । एते च सर्वेऽपि नयाः स्वस्थाने निजनिजवक्तव्यतायां 'शुद्धाः ', नास्ति स कश्चिन्नयो यः स्ववक्तव्यतायामप्यशुद्धः, सर्वेषामपि परिपूर्णस्ववक्तव्यता
१ ०म्भादित्रयं वा ॥ २. •माण उ सु० वा० मो० पु० मु० जेभा० खंभा० ॥
For Private And Personal Use Only
गाथा
४५-४९
सङ्कल्यादि
स्वरुपम्
३२ (B)