________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ३२ (A)
पाणिवह-मुसावाए अदत्त-मेहुण-परिग्गहे चेव । मूलगुणे पंचविहा, परूवणा तस्सिमा होइ ॥ ४५ ॥
प्राणिवधः त्रस-स्थावरप्राणिहिंसा। मृषावादः भूतोपघातिवचः। अदत्तादानं स्वामिगुर्वननुज्ञातग्रहणम्, मैथुनं स्त्रीसेवा। परिग्रहः स च बाह्याऽभ्यन्तरवस्तुषु मूर्छा। सर्वत्र |* एकारान्तता प्राकृतलक्षणवशात्। मूलगुणे मूलगुणविषया पञ्चविधा प्रतिसेवना। तस्याश्च पञ्चविधायाः प्रतिसेवनायाः संरम्भादिभेदतः प्रतिभेदं त्रिरूपाया इयं वक्ष्यमाणा प्ररूपणा संरम्भादिव्याख्यानरूपा भवति ॥४५॥ तामेव दर्शयतिसंकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं पि सुद्धाणं ॥ ४६ ॥
गाथा ४५-४९ सङ्कल्यादि स्वरुपम्
प्राणातिपातं करोमीति यः संकल्पोऽध्यवसायः स संरम्भः। यस्तु परस्य परितापकरो व्यापारः स समारम्भः, अपद्रावयतो जीवितात्परं व्यपरोपयतो व्यापार: १. पाणवह वा. मो. जेभा खंभा० ।। २. प्राणवधः - मु० ॥ ३० सारंभो-जेमा० खंभा० ।।
३२ (A)
For Private And Personal Use Only