________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ३१ (B)
तिन्नि यं गुरुगा मासा, विसेसिया तिण्ह चउगुरू अंते । एए चेव य लहुया, विसोहिकोडीए पच्छित्ता ॥ ४४ ॥
त्रयाणामतिक्रम-व्यतिक्रमोऽतिचाराणां त्रयो गुरुका मासाः। कथम्भूता? इत्याहविशेषिता: तपः-कालविशेषिताः, किमुक्तं भवति? अतिक्रमेऽपि मासगुरुः, व्यतिक्रमेऽपि मासगुरुः, अतीचारेऽपि मासगुरुः। एते च त्रयोऽपि यथोत्तरं तपः-कालविशेषिताः । तथा अन्ते अनाचारलक्षणे दोष चतुर्गुरुः चतुर्मासगुरुप्रायश्चित्तम्। एते च मासगुर्वादयः प्रायश्चित्तभेदा अतिक्रमादिष्वविशोधिकोट्यां द्रष्टव्याः। विशोधिकोट्यां त्वेत एव मासादयो लघुकाः प्रायश्चित्तानि, तद्यथा- अतिक्रमे मासलघु , व्यतिक्रमेऽपि मासलघु, अतिचारेऽपि मासलघु , नवरमेते यथोत्तरं तपः- कालविशेषिताः, अनाचारे चतुर्मासलघु ॥ ४४ ॥ 'मूलगुणे पञ्चविधा प्रतिसेवना' इति यदुक्तं [गा.४१] तत्र पञ्चविधत्वं दर्शयति
गाथा ४१-४४ अतिक्रमादिस्वरुपम्
३१ (B)
१. उ. वाभा० चूर्णी च ॥ २. मातीचारा. वाल्मो पु०॥
For Private And Personal Use Only