________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका ३० (B)
एतदुक्तं 'भवति सर्वाप्युत्तरगुणप्रतिसेवना अतिक्रमादिभेदतश्चतुष्प्रकारा, मूलगुणप्रतिसेवना संरम्भे समारम्भे आरम्भे च, संरम्भादिभेदतस्त्रि-प्रकारेति भावार्थः। ते च संरम्भादयो रागद्वेषादितः रागतो द्वेषतः, आदिशब्दादज्ञानतश्च। तत्र रागतो यथा चिलातीपुत्रस्य सुसुमावधः, द्वेषतो यथा सात्यकेद्वैपायनव्यापादनम्, अज्ञानतो ब्राह्मणादीनां छागादिवधः । ननु 'यथोद्देशस्तथा निर्देश' इति प्रथमतो मूलगुणप्रतिसेवना व्याख्यातुमुचिता पश्चादुत्तरगुणप्रतिसेवना, अत्र तु विपर्यय इति कथम् ? उच्यते इह प्रायः प्रथमतोऽल्पसंक्लिष्टाऽध्यवसायः, स तूत्तरगुणप्रतिसेवनां कुरुते, पश्चादतिसंक्लिष्टाध्यवसायो मूलगुणप्रतिसेवनामिति ख्यापनार्थं विपर्ययेणोपन्यास इत्यदोषः ॥ ४२ ॥ साम्प्रतम् अतिक्रमादीन् पिण्डविशुद्धिमधिकृत्य व्याचिख्यासुराह
आहाकम्मनिमंतण, पडिसुणमाणे अतिक्कमो होइ । पयभेयाइ वइक्कम, गहिए तेइएतरो गिलिए ॥ ४३ ॥
गाथा ४१-४४ अतिक्रमादिस्वरुपम्
३० (B)
१. सूसुमा० वा. मो० पु. मु० ॥२. नस्य च व्या० खं ॥३. मतः स्वल्प खं ॥ ४. आधाकम्मामंतण - तिसृष्वपि भाष्यप्रतिषु चूर्णी च ॥५. ततिओऽवरो गि० वाभा० ॥
For Private And Personal Use Only