________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ३० (A)
मूलगुण उत्तरगुणे, दुविहा पडिसेवणा समासेण । मूलगुणे पंचविहा, पिंडविसोहाइया इयरा ॥ ४१ ॥ प्रतिसेवना समासेन सङ्केपेण द्विधा। तद्यथा-'मूलगुणे' मूलगुणविषया 'उत्तरगुणे' : उत्तरगुणविषया। तत्र मूलगुणविषया पञ्चविधा प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहरूपा। इतरा उत्तरगुणविषया पिण्ड-विशुद्धयादिविषया अनेकविधा, अत्राऽऽदिशब्दात् समित्यादिपरिग्रहः, किमुक्तं भवति?-मूलगुणेषु प्राणातिपातविरत्यादिषु उत्तरगुणेषु पिण्डविशुद्ध्यादिषु यथाक्रमं प्रतिसेवना प्राणातिपातादिलक्षणा पञ्चविधा, आधाकर्मोपभोगादिलक्षणा अनेकविधेति ॥४१॥ तत्र मूलगुणप्रतिसेवना संरम्भादिभेदतश्चित्रा उत्तरगुणप्रतिसेवना त्वतिक्रमादिभेदतश्चतुःप्रकारास्तथा चाह
सा पुण अइक्कमवइक्कमे य, अइयार तह अणायारे । संरंभ समारंभे, आरंभे रागदोसादी ॥ ४२ ॥ सा उत्तरगुणप्रतिसेवना पुनरतिक्रमे व्यतिक्रमे अतिचारे अनाचारे च भवति।
गाथा ४१-४४ अतिक्रमादिस्वरुपम्
३० (A)
For Private And Personal Use Only