________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका २७ (A)
परिकुञ्चनाप्रायश्चित्तं च पृथगुपपद्यते तद् वक्तव्यम्। ततोऽध्ययनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेषः नानात्वं वक्तव्यम् ४। तदनन्तरं तदर्हा प्रायश्चित्तार्हा परिषद् । वाच्या ५। ततः सूत्रार्थ:६। एष द्वारगाथासंक्षेपार्थः, व्यासार्थं तु प्रतिद्वारं वक्ष्यति ॥ ३४ ॥ तत्र निरुक्तद्वारप्रतिपादनार्थमाह
पावं छिंदइ जम्हा, पायच्छित्तं तु भन्नए तेण । पाएण वा वि चित्तं, विसोहए तेण पच्छित्तं ॥ ३५ ॥ दारं १।।
यस्मात् शोधिरूपो व्यवहारोऽपराधसञ्चितं पापं छिनत्ति-विनाशयति, तेन कारणेन प्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरूंपनिष्पत्तिः, अथवा प्रायेण प्रायोऽपराधमलिनं
गाथा चित्तं जीवम्, अत्र चित्तशब्देन चित्त-चित्तवतोरभेदोपचाराद् जीवोऽभिधीयते, तथा चाह |* ३४-३६
व्यवहारस्य चूर्णिकृत्- 'चित्त इति जीवस्याऽऽख्या' इति विशोधयति अपराधमलरहितं करोति तेन
नामादिभेदाः कारणेन प्रायश्चित्तं, 'प्रायः' प्रायेण चित्तं यथावस्थितं भवत्यस्मादिति प्रायश्चित्तमिति
२७ (A) व्युत्पत्तेः ॥ ३५ ॥ गतं निरुक्तद्वारमिदानीं भेदद्वारप्रतिपादनार्थमाह१. रूपसिद्धिः - वा. मो० पु० ॥
For Private And Personal Use Only