________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
व्यवहार
सूत्रम् पीठिका २७ (B)
पडिसेवणा१ य संजोयणार य, आरोवणा३ य बोधव्वा। पलिउंचणा४ चउत्थी, पायच्छित्तं चउद्धा उ ॥ ३६ ॥
प्रतिषिद्धस्यं सेवना 'प्रतिषेवणा,' अकल्प्यसमाचरणमिति भावः१। चः समुच्चये, ४ संयोजनं 'संयोजना' शय्यातर-राजपिण्डादिभेदभिन्नाऽपराधजनित-प्रायश्चित्तानां संकलनीकरणम् २। आरोप्यते इति ‘आरोपणा' प्रायश्चित्तानामुपर्युपर्यारोपणं यावत् षण्मासाः, परतो वर्द्धमानस्वामितीर्थे आरोपणायाः प्रतिषेधात् ३। परिकुञ्चनं 'परिकुञ्चना' गुरुदोषस्य मायया लघुदोषस्य कथनं, यथा सचित्तं प्रतिषेव्य मया अचित्तं प्रतिषेवितमित्याह इति। एषा | प्रतिसेवनात आरभ्य गण्यमाना चतुर्थी ४। एवमेतत् प्रायश्चित्तं चतुर्द्धा भवति ॥ ३६ ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमतः प्रतिषेवणोच्यते । सा च प्रतिषेवणा प्रतिषेवक-प्रतिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मकक्रियायाः कर्तृकर्मव्यतिरेकेणाऽसम्भवात्। ततस्त्रयाणामपि प्ररूपणां चिकीर्षुरिदमाह
गाथा ३४-३६ व्यवहारस्य नामादिभेदाः
२७ (B)
१. स्यासेवना-खं ॥
For Private And Personal Use Only