________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका २६ (B)|
तदेतदनाभाव्यं गृह्णन्तं प्रति उक्तं, सम्प्रति गृहीताऽनाभाव्यं प्रत्याह- 'गहिए वी'त्यादि | अपिशब्दः समुच्चये, न केवलमनाभाव्ये गृह्यमाणे किन्तु गृहीतेऽप्यनाभाव्ये दीयते प्रथमत उपदेश इति गम्यं, तदनन्तरं सूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वा 'एतत् तवाभवति प्रायश्चित्तम्' इति प्रथम, ततो दानप्रायश्चित्तं दीयते इति द्वितीयम् ॥३३ ॥
अथ प्रायश्चित्तमिति कः शब्दार्थः ? कतिविधं प्रायश्चित्तम् ? इति प्रश्नमुपजीव्य प्रायश्चित्तनिरुक्तादिद्वारकलापप्रतिपादनाय द्वारगाथामाह
पायच्छित्तनिरुत्तं१, भेयार जत्तो परूवणपुहुत्तं ३। अज्ज्ञयणाण विसेसो४, तदरिहपरिसा य५ सुत्तत्थो६ ॥३४॥ दार गाहा।
प्रथमतः प्रायश्चित्तनिरुक्तं प्रायश्चित्तशब्दार्थो वक्तव्यः१। ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः२, तदनन्तरं यतो निमित्तात् प्ररूपणापृथक्त्वं प्ररूपणाबाहुल्यं, किमुक्तं भवति ? यतो निमित्तात् प्रतिसेवनातः संयोजनाप्रायश्चित्तम्, आरोपणाप्रायश्चित्तं,
गाथा ३४-३६ व्यवहारस्य नामादिभेदाः
२६ (B)
१. चूर्ण्यनुसारेण 'जत्तो' इति तृतीयं द्रारम्, 'परूवणपुहुत्तं' इति चतुर्थम् ।।
For Private And Personal Use Only