________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पीठिका
२६ (A)
www.kobatirth.org
अपरे ऽनवस्थावारणाय
प्रियधर्मा यावदबहुश्रुतस्तेऽपि केचिद् व्यवहारयोग्यतया तदन्यनिषेधाय वा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः ॥ ३२ ॥ सम्प्रति 'उवदेसपच्छित्तं' [गा.२०] इत्येतत् व्याचिख्यासुराह
उवदेसो उ अगीए, दिज्जइ बिइओ उ सोहिववहारो । गहिएवं अंणाभव्वे, दिज्जइ बिइयं तु पच्छित्तं ॥ ३३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
साधुर्द्विविध:- गीतार्थोऽगीतार्थश्च । तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः । यस्त्वऽगीतार्थः स युक्ताऽयुक्तपरिज्ञान- विकलतयाऽनाभाव्यमपि गृह्णाति, ततस्तस्मै 'अगीताय' अगीतार्थाय उपदेशो दीयते, यथा- न युक्तं तवानाभाव्यं ग्रहीतुं, यो ह्यनाभाव्यं गृह्णाति तस्य तन्निमित्तं प्रायश्चित्तमाभवति' । एवमुपदिश्य तस्यानाभाव्यग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह - 'बिइओ य सोहिववहारो' शोधि:प्रायश्चित्तम्। अनाभाव्यं गृह्णाति प्रथमत उपदेशो दीयते, द्वितीयः शोधिदानव्यवहारः । १. य टीकानिर्दिष्टगाथावयवे ॥ २. व जेभा० खंभा० । य वाभा० ॥। ३. अणाभावे - वा० मो० पु० ॥
For Private And Personal Use Only
܀܀܀
गाथा
३४-३६
व्यवहारस्य
नामादिभेदाः
२६ (A)