________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका २३ (B)
इह यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं, स गीतार्थः, इतरस्त्वगीतार्थः। तत्र 'अगीतेन अगीतार्थेन सार्द्ध नैव पुरुषेण व्यवहर्त्तव्यम्। कस्मात् ? इत्याह- 'यस्मात् सः' अगीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक् श्रद्धत्ते न परिपूर्णमपि व्यवहारं कृतं तथेति प्रतिपद्यते इति, तस्माद् गीतार्थेन सह व्यवहर्त्तव्यम् ॥ २७ ॥ यत आह
दुविहम्मि वि ववहारे, गीयत्थो पच्चविजई जं तु । तं सम्म पडिवज्जइ, गीयत्थम्मी गुणा चेव ॥ २८ ॥
'द्विविधे'ऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यवहारलक्षणे च 'व्यवहारे गीतार्थो यत्प्रत्याय्यते,' पाठान्तरं 'पण्णविजइ' प्रज्ञाप्यते 'तत्सम्यक् प्रतिपद्यते' गीतार्थत्वात् ।
गाथा २५-२८ व्यवहर्त्तव्य स्वरुपम्
२३ (B)
१. नास्तीयं गाथा चूर्णी ॥ २. पट्ठविज्जती-तिसृष्वपि भाष्यप्रतिषु ॥ पन्न( ण्ण.मु.) विजइ मु. टीकानिर्दिष्टं पाठान्तरम् ॥ ३. प्रत्याख्याप्यते - मो० पु० मु० ॥
For Private And Personal Use Only