________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् पीठिका २३ (A)
पियधम्मा जाव सुयं, ववहारन्ना उ जे समक्खाया ।
सव्वे वि जहोद्दिट्ठा, ववहरियव्वा ये ते होंति ॥ २६ ॥
इह 'आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्' इति न्यायात् प्रियधर्मबहुश्रुतग्रहणे तदन्तरालवर्त्तिनामपि दृढधर्मादीनां ग्रहणं, ततः प्रियधर्मण आरभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिच्छेदकर्तारः प्राक् समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरूपा व्यवहर्त्तव्या भावव्यहर्त्तव्या भवन्ति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदुभयवित्तया च तेषां प्रज्ञापनीयत्वात् ॥२६॥ इह द्विविधो व्यवहारः- प्रायश्चित्तव्यवहार आभवत्सचित्तादिव्यवहारश्च तत्र द्विविधेऽपि व्यवहारे व्यवहर्त्तव्यं प्रायो गीतार्थेन सह, नाऽगीतार्थेन । तथा चाह
अॅग्गीएणं सद्धिं ववहरियव्वं न चेव पुरिसेण । जम्हा सो ववहारे, कयम्मि सम्मं न सद्दहति ॥ २७ ॥
१. ना य जे - वा० पुः ॥ २. वि - वाभा० ॥ ३. त्वादिति ॥२६॥ व्यव० वा. मो० पु० ॥ ४. त्तलक्षण आ० खं ॥५. नास्तीयं गाथा चूर्णी ॥
गाथा २५-२८ व्यवहर्त्तव्य स्वरुपम्
२३ (A)
For Private And Personal Use Only