________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
क्रमव्यतिक्रमयोरपि उपयोग स्फुटबुद्ध्याकरणे तदुभयं प्रायश्चित्तमिति योगः, वाशब्दो भिन्नक्रमत्वादेगयरे इत्यत्र योजनीयः ततोऽयमर्थ एकतरस्मिन् वा तत्र अतिक्रमे व्यतिक्रमे अतिचारे वा यदि भवत्याशंका यथा मयातिक्रमः कुतो न वा व्यतिक्रमो कृतो न वा अतिचारः कृतो नवेति तत्रापि तदुभयं प्रायश्चित्तं इह सहसाकाराशंके संकिए सहसागारे पदद्वयेनापि गते, केवलं महाव्रतानामतिक्रममादिष्वित्याशंकायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत् परिकल्पनीयमिति भाष्यकृता सहसाकाराशंके अपि योजिते, छण्ह ठाणाण बज्झं तु इति व्याख्यानयनाह नवहेत्यादि यस्याचार्यस्य मतेऽनवस्थितपरांचितयोरेक्यविवक्षणात नवधा नवप्रकारा विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद्वर्त्तते प्रायश्चित्तं तत् पयामुपरितनानां बाह्यमेव तुशब्दस्यैवकारार्थत्वात् , ततः छण्हं ठाणाण बझंतु इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति उक्तं तदुभयाई प्रायश्चित्तमिदानी विवेकाहेमाह ।। कडजोगिण उ गहियं सेज्जासंथारभत्तपाणं वा; अफासुएसणिजं नाउं, विवेगो उ पच्छित्तं ॥भा०१०९॥ ___कृतयोगी नाम गीतार्थः, कश्च गीतार्थ उच्यते वस्त्रपात्रपिंडशय्यैषणाध्ययनानि छेदसत्राणि च सूत्रतोऽर्थतः तदुभयतो वा येन सम्यगधीतानि स गीतार्थः, तेन कृतयोगिना श्रुतोपदेशानुसारिपरिणामपरिणतेन शय्या उपाश्रयः उपाश्रयग्रहणात् तृणडगलकमलकादिपरिग्रहस्तेषामपि प्रायस्तत्रैव संभवात् संस्तारकः प्रतीतः, संस्तारकग्रहणं सकलौघिकोपग्रहिकोपलक्षणं भक्तमशनं, पानं सौवीरादि वाशब्दात् खादिम स्वादिमं वा गृहीतं पश्चात् कथमपि अप्रासुकमनेषणीयं वा ज्ञातं, तत्र प्रायश्चित्तं तस्य गृहीतस्य शय्यादेविवेकः परित्यागः उक्तं च । तं सेजाइयं विहिणा सुउबइठेणे विगिंचमाणो परिसुद्धो इति ।।
For Private and Personal Use Only