________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यवहारपत्रस्य
॥३८॥
पउरमपाणगामे किं साहु न वेति सावए पुच्छा नत्थि। वसहित्ति पकया ठिएसु अतिसेसियविवेगोभा०॥
केचित् साधवः प्रचुरान्नपाने ग्रामे गतास्तत्र वसतिर्दुःप्रापा नोचिता लभ्यते इति न स्थिताः ततः सावए पुच्छा इति पष्ठिसप्तम्योरथ प्रत्यभेदात् श्रावकस्य तथाभिनवदीक्षितस्य पार्श्वे पृच्छा अभवत् यथा किमिति साधवो नात्र तिष्ठति स पाह नास्त्यत्र वसतिरिति कृत्वा ततः साधुषु गतेषु श्रावकैः पर्यालोच्य वसतिः प्रकृता प्रकृष्टा कृता तस्यां च कृतायां कालांतरेण ते वान्ये वा साधवः समागतास्तत्र स्थिता स्थितेषु च कतिपयदिनातिक्रमे अतिशेषितं ज्ञातं ज्ञाते च सति ततः प्रायश्चित्तं विवेकः | किमुक्तं भवति, ज्ञाते सति तां वसतिं परित्यजंतस्ते शुद्धा इति उपलक्षणमेतत् , तेन एतदपि द्रष्टव्यं ।। अशठभावेन गिरि राहु मेघ महिकारजःसमावृते सवितरि उद्गतबुद्ध्या अनस्तमितबुध्ध्या वा गृहीतमशनादिकं पश्चात् ज्ञातमनुद्गते अस्तमिते वा सूर्ये गृहीतं तथा प्रथम पौरुष्यां गृहीत्वा चतुर्थामपि पौरुषी यावत् धृतमशनादि शठभावेनाऽरा ठभावेन वा अद्वयोजनातिक्रमेण नीतमानीतं वाशनादि तत्र विवेक एव प्रायश्चित्तमिति शठाशठयोश्चेदं लक्षणं इंद्रियविकथामायाक्रीडादि कुर्वन् शठः ग्लानसागारिकस्थंडिलभयादिकारणतोऽशठ इति उक्तं विवेकाह प्रायश्चितं संप्रति व्युत्सर्हिमाह ॥ गमणागमणवियारे सुत्ते वा सुमिणे सणे रातो; नावा नईसंतारे पायच्छित्तंवि उस्सग्गो ॥भा०१११॥
गमनमुपाश्रयात् गुरुमूलाद्वा बहिर्गमनं भूयः खोपाश्रये गुरुपादमूले वा वहिःप्रदेशात् प्रत्यावर्तनमागमनं च गमनं च | गमनागमनं समाहारो द्वंद्वः गमनपूर्वमागमनं गमनागमनं गमनं आगमनं च गमनागमने स्यादावसंख्येय इत्येकशेषः तयोस्तत्र
सवितरि उद्गतबुद्ध्या अनपाषा यावत् धृतमशनादलक्षणं इंद्रियविर
|॥३८॥
For Private and Personal Use Only