________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न सम्यक्धारणाविषयीकृतास्तेषु प्रायश्चित्तं प्रतिपद्यते भावतः सम्यक् अपुनरापतनेन तदुभयमिति तच्च तद्भयं च पूर्व
गुरूणां पुरत आलोचना तदनंतरं तदादशतो मिथ्यादुःकृतदानमित्येवंरूपं तदुभयं एतदेव सविस्तरमभिधित्सुराह । | सदा सुया बहुविहा तत्थय केसु विगतोमि रागति; अमुगत्थ मेवितका, पडिवज्जइ तदुभयं तत्थ॥भा० १०४॥
शब्दामया बहुविधा बहुप्रकाराः श्रुताः श्रवण विषयीकृतास्तत्र तेषु बहुविधेषु शब्देषु श्रुतेषु मध्ये वितर्कति एवं मे वितर्क संदेहो यथा केषुचिदपि अमुगत्थति अमुकेषु रागमुपलक्षणमेतत् द्वेष वा गतोस्मि तत्र तस्मिन् शंकाविषये तदुभयमुक्तलक्षणप्रायश्चित्तं भावतः प्रतिपद्यते, यदि हि निश्चितं भवति यथा अमुकेषु शब्देपु रागद्वेष वा गत इति नत्र तपोहें प्रायश्चित्तं अथैवं निश्चयो न गतो रागद्वेषं वा तत्र स शुद्ध एव न प्रायश्चित्तविषयः, ततोविनके यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति । छ। एवमेव सेसएवि विसए आसेविऊणजे पच्छा, काऊणएगपक्खे न तरइ तहियं तदुभयं तु ॥भा०१०५॥ __एवमेव उक्तेनैव प्रकारेण यान् रूपादीन् विषयान् आसेव्योपभुज्य उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चात् एकतरस्मिन् पक्षे अपराधलक्षणे निर्दोषतालक्षणे वा कतुं न शक्नोति, यथा रूपादिषु विषयेषु रागद्वेषं वा गतः प्राणातिपातादयो वा कृता इति यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति तत्र तदुभयं च तदुभयमेव तु शब्दस्यैवकार्थत्वात् यथोक्तलक्षणं प्रायश्चित्तं शंकास्पदत्वात् तदेवं शंकिते इति व्याख्यातं, संप्रति सहसाकारे इत्यादि व्याचिरव्यासुराह ।
For Private and Personal Use Only