________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यव- स्थानानां बाह्यतः इति वचसा तदेव प्रतिपत्तव्यं, यश्च तदुभयं तच्चे मावनीयं, शंकितादिषु यथोक्तस्वरूपेषु सत्सु प्रथम हारसूत्रस्य गुरूणां पुरत आलोचनं, तदनंतरं गुरुसमादेशेन मिथ्यादुःकृतदानमिति तत्र यदुक्तं संकिए इति तत् विवृण्वन्नाह ।
हित्थोव ण हित्थोमे, सत्तो भणियं व नभणियं मोसं ।
उग्गहणुगणमणुन्ना तइए, फासे चउत्थम्मि ॥ भा० १०१ ॥ इंदियरागद्दोसाउ, पंचमे किंगतोमि न गतोत्ति, छठे लेवाडाइ धोयमधोयं न वा वेत्ति ॥भा०१०२॥
सत्वः प्राणी हित्थोत्ति देशीपदमेतत् हिंसितो मे मया न वा हिसित इति, तथा मृषा भणितं यदि वा न भणितं तथा तृतीये अदत्तादानविरतिलक्षणे अवग्रहोऽनुज्ञा मया कारिता यदि वा अननुज्ञा अवग्रहानुज्ञा न कारिता, तथा चतुर्थे मैथुनविरतिलक्षणे जिनभवनादिषु स्नानादिदर्शनप्रयोजनतो गतः सन् फासे इति स्वीस्पर्शरागं गतो न वा, तथा पंचमे परिग्रहविरमणलक्षणे इंद्रियेषु विषयिणा विषयोपलक्षणादिंद्रियविषयेषु इष्टानिष्टेषु रागद्वेषौ गतोमि किंवा न गत इति, तथा षष्ठेरात्रिभोजनविरमणे लेएकदादि तकाद्यवयवरूपं कथमपि पात्रादिगतं पर्युषितं भिक्षाटनार्थमुद्यतेन धौतमथवा न धोतं मयेति यद्यैवं
ततः किमित्याह । * इंदिय अव्वागडिया जे अत्था अणुवधारिया, तदुभयपायच्छित्तं पडिवज्जइ भावतो॥ भा० १०३ ॥
उक्तेन प्रकारेण य अर्थः प्राणातिपातादय इंद्रियैश्चक्षुरादिभिर व्याकृता अप्रकटीभूताः प्रकटीकृता अपि ये अनुपधारिता
॥३६।।
For Private and Personal Use Only