SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ******* ***←• •-• *•-• •-- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तक्रादिलेपकदवयवाः कथमपि पात्रगताः पर्युषिता भिक्षार्थमटितुकामेन धौताः किंवा न धौता इत्यादि तत्र पण्णां स्थानानां बाह्यं तदुभयलक्षणं प्रायश्चितमिति योगः, तथा उपयोगवतोपि सहसाकारे सहसा प्राणातिपातादिकरणे तथा भये दुष्टम्ले च्छादिसमुत्थे यदिवा हस्त्यागमने मेघोदकनिपातस्पर्शने दीपादिस्पर्शनेन वा श्राकुलतया प्राणातिपातादिकरणे तथा श्रातुरः क्षुधा पिपासया वा पीडितः भावप्रधानश्चायं निर्देशस्ततोयमर्थः आतुरतायां तथा आपत्चतुर्द्धा तद्यथा द्रव्यापत् क्षेत्रापत् कालापत्, भावापत् तत्र द्रव्यापत् दुर्लभं प्रायोग्यं द्रव्यं, क्षेत्रापच्छिन्नमंडपादि कालापत् दुर्भिक्षादि, भावापत् गाढग्लानत्वादि एतासु सहिंसादोपमापद्यमानस्यापि अनात्मवशगस्य तथाहि ईर्ष्यासमितायुपयुक्तोप्युच्चालिते पादे सहसा समापतितं कुलिंगिनमपि व्यापादयेत् मृषापि कदाचित्सहसा भापतेऽवग्रहमपि कदाचिद्राभसिकतया अननुज्ञातमपि परिभोगयति श्रत्युन्मलारूपमवलोक्य कदाचनापि सहसारागमुपैति इत्यादि, तथा भयात्प्रपलायमानो भू जल ज्वलन वनस्पतिद्वित्रिचतुःपंचद्रियानपि व्यापादयेन् मृषापि भयाद् भाषते, परिग्रहमपि धर्मोपकरणवाह्यस्य करोति आतुरतायामपि सम्यगीर्यापथाशोधने संभवति प्राणातिपातः श्रुत्यातुरतायां कदाचिन् मृषाभाषणमपि अदत्तादानमपि च एवमापत्स्वपि भावनीयं, यथा महाव्रतानां प्राणातिपातनिवृत्यादीनां सहसाकारः स्फुटबुद्धयाकारणतो वा अतिचारे चशब्दादतिक्रमव्यतिक्रमयोश्च तथाऽतिक्रमादीनां महावृतविषयाणामन्यतमस्याशंकायां वा किमित्याह छण्ठाणायवज्झतोइति इह केषांचित् अनवस्थितपारांचिते प्रायश्चित्ते द्वे अपि एकं प्रायश्चित्तमिति प्रतिपत्तिः तन्मतेन नवधा प्रायश्चित्तं तत्रचाद्ये द्वे प्रायश्चित्ते मुक्त्वा शेषाणि सप्त प्रायश्चितानि तेषां च सप्तानां प्रायश्चित्तानां यदाद्यं प्रायश्चित्तं तत् उपरितनानां पराणां बाह्ये नाभ्यंतरमिति, पण्णां For Private and Personal Use Only ******+ +1+****
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy