________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव हारसूत्रस्य |
॥३५ ।।
-->**-***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मपि तान् प्रति अप्रशस्तत्वात्, अत्रैव प्रायश्चित्तयोजनामाह । छ ।
जो जत्थ उ करणिज्जो, उट्ठाणाइंड श्रकरणे तस्स, होइ पडिक्कमियव्वं एमेवय वाए माणसिए ॥ भा० २८ ॥ यो योग उत्थानादिरभ्युत्थानांजलिप्रदानादिको यत्र श्राचार्यादिविषये करणीय उक्तस्तस्य तत्राकरणे प्रतिक्रमितव्यं भवति, मिथ्यादुः कृतं प्रायश्चित्तं भवतीति भावः, तदेव तत् कायिकप्रतिरूपयोगविषये उक्तमेव अनेनैव प्रकारेण वाचिके मानसिकेपि योगे प्रतिरूपे वक्तव्यं, यथा वाचिको मानसिकोपि यः प्रतियोगरूपयोगो यत्र करणीय उक्तस्तस्य तथा तत्राकरणे मिथ्यादुः कृतं प्रायश्चित्तमिति, चशब्दोऽनुक्तसमुच्चयार्थस्तेन इच्छामिध्यादिप्रशस्त योगा करणेपि मिथ्यादुः कृतं द्रष्टव्यं संप्रति यत् मूलगाथायामतिकमे णाभोगे इत्युपन्यस्तं तद्व्याख्यानयन्नाह ॥
वराहे अतिक्रमणे वइक्कमे चेत्र तह श्रणाभोगे । भयमाणे उ अकिच्चं, पायच्छित्तं पडिकमणं; ॥ भा० ९९ ॥
राधे उत्तरगुणप्रतिसेवनरूपे अतिक्रमणे तथा व्यतिक्रमे च तथाऽनाभोगतोऽकृत्यमपि मूलोत्तरगुण प्रतिसेवनालक्षणं भजमाने प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तं तदेवमुक्तं प्रतिक्रमणार्ह प्रायश्चित्तमिदानीं तदुभयाईमभिधातुकाम ग्रह | छ । संकिए सहसागारे भयाउरे श्रावतीसु य; महव्वयातिचारे य, छरहं ठाणाण बज्झतो ॥ भा० १०० ॥ शंकितः प्राणातिपातादौ यथा मया प्राणातिपातः कृतः किंवा न कृतस्तथा मृषा भणितं नवा, श्रवग्रहोऽनुज्ञापितो नवा, स्नानादिदर्शननिमित्तं जिनभवनादिगतस्य स्त्रीस्पर्शे रागगमनमभून्नवा, इष्टानिष्टेषु शब्दादिषु रागद्वेषौ गतौ नवा
For Private and Personal Use Only
2116400
पीठिका
ॐ ॥ ३५ ॥