________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
भी व्यवहारसूत्रस्य
॥३४॥
पादादप्यारम्य कुर्वतो नाविनयः गुर्वाज्ञाकारित्वात् उक्तोनुलोमकायक्रियाविनयः, संप्रति संस्पर्शनविनयमाह; सफरिसणेत्यादि संस्पर्शनविनयः पुनः परिमृदुकं वाशब्दादल्पमृदुकं वा यथा सहते तथा विश्रामणां करोति, अतिस्वरेण विश्रामणायां परितापनसंभवात् अथ विश्रामणायां को गुण इत्यत आह । छ । वायाइ सठाणं वयंति बद्धासणस्सजे खुभिया।खेयजओतणथिरया, बलंचअरिसादओ नेवं॥भा०९३॥
वातादयो वातपित्तश्लेष्माणो ये बद्धासनस्य सतः क्षुभिताः स्वस्थानात् प्रतिचलितास्ते स्थानं व्रजंति स्वस्थानं प्रतिपद्यंते, तेन विक्रियां मजंतीति भावः, तथा वाचनाप्रदानतो मार्गगमनतो वा यः खेद उपजातः तस्य जयो ऽपगमो भवति, तथा तनोः शरीरस्य स्थिरता दाढ्यं भवति, न विशरारुभावः, अत एव च बलं शरीरं तदुपष्टंभतो वाचिकं मानसिकं च तथा एवं विश्रामणातो वातादीनां स्वस्थानगमने अर्श प्रादयः अर्शासि बातिकपित्तश्लेष्मजानि आदिशब्दात्तदन्यरोगा न उपजायते, एते विश्रामणायां गुणास्ततः कर्त्तव्योऽवश्यमनुलोमकायक्रियाविनयः, संस्पर्शनविनयश्च संप्रति सर्वत्रानुलोमता- | विनयमाह ।। सेयवपु मे काको, दिठो चउदंतपंडुरो वेभो। आमंति पडिभणते सव्वत्थ गुलोमपडिलोमे भा० ९४॥
श्वेतवपुःश्वेतशरीरो मे मया काको दृष्टः यदिवा इभो हस्ती चतुर्दतो पांडुरश्च मया दृष्ट इति वर्त्तते, एवं प्रतिलोमे लोकव्यवहारविरुद्ध गुरुणा कथमप्युच्यमाने श्राममिति प्रतिभणति शिष्ये सर्वत्रानुलोमलक्षणो विनयः प्रतिपत्तव्यः, किमुक्तं भवति, यदि नाम श्वेतवपुर्मया काको दृष्ट इत्यादिकं लोकव्यवहारप्रतिकूलं कथमपि गुरुर्भणति तथापि तदानीं सकलजन-
॥३४॥
गदिकं लोकव्यवहारप्रतिशतवत्रानुलोमलचूणो विनयः प्राप्त, एवं प्रतिलोमे ।
For Private and Personal Use Only