________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--
----
स्वाभिप्रायेण वर्त्तिता श्रेयसी लोकेपि, अपिशब्दोत्राऽनुक्तोऽपि सामर्थ्यात् गम्यते, किमुत उत्तरे लोकोत्तरे सुविहितजनमार्गे परलोकार्थिनस्तस्य सुतरां न श्रेयसी, ज्ञानादिविच्युतिप्रसंगात् । छ । जदुत्तं गुरुनिदेसं जोवि श्राइसई मुणी, तस्सावि विहिणा जुत्ता, गुरुवक्काणुलोमता ॥ भा० ९० ॥
यथोक्तं गुरुनिर्देशं गुर्वाज्ञारूपं योपि मुनिरादिशति कथयति, तस्यापि तथा दिशतः प्रतिविधिना सूत्रोक्तेन युक्ता गुरुवाक्यानुलोमता यतो यथोक्तस्वरूपात्तदेवमुक्तोऽनुलोमवचनसहितस्वरूपो विनयः, संप्रति प्रतिरूपकायक्रियाविनयमाह ।। अद्धाण वायणाए निन्नासणयाए परिकिलंतस्स, सीसाई जा पाया किरिया पायादविणउय ॥भा०६१॥ ___अध्वनि मार्गे वाचनायां सूत्रार्थप्रदानलक्षणायां निन्यासनतया निरंतरोपवेशनतः परिक्रांतस्य समंततः क्रममुपागतस्य क्रिया प्रतिरूपकायक्रिया विश्रामणेति तात्पर्यार्थः कर्चव्येति वाक्यशेषः, कथं कर्त्तव्येत्यतः आह शीर्षादेर्यावत्पादौ शिरस्यारभ्य क्रमेण तावत् कर्त्तव्या यावत् पादौ; यदि पुनः पादादारभ्य करोति तदा अविनयः पादादिमलस्य शीर्षादिषु लग्नात् अत्रैवापवादमाह । छ।
जत्तो व भणाइ गुरु करेइ कियकम्म मो ततो।।
पुव्वं संफरिसणविणउ पुण परिमउयं वा जहा सहइ ॥ भा० ९२ ॥ यतो वा अंगादारभ्य गुरुर्भणति तत् पूर्वमारभ्य कृतिकर्म विश्रामणां, मो इति पादपूरणे करोति तथा च सति
Rakkerayokok-
For Private and Personal Use Only