________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्ययहारसूत्रस्य ॥३२॥
संपादयति, स आर्तगवेषणविनयः; संप्रति कालज्ञताविनयप्रतिपादनार्थमाह
आहारादिपयाणं छंदमि ऊ छट्टर विणउ॥ भा० ८३॥ षष्ठः कालज्ञतालक्षणो विनयः एष यदुत छदंमिउ इति तृतीयार्थे सप्तमी यथा तिसु तेसु अलंकिया पुहवी इत्यत्र ततो ऽयमर्थः । छंदसा गुरूणामभिप्रायेणैव तुशब्दस्यैवकारार्थत्वात् आहारादिप्रदानं किमुक्तं भवति, यत् यस्मै प्रतिभासते तदिगिताकारादिभिरभिज्ञाय आचार्यग्लानोपाध्यायप्रभृतिनामकालक्षेप संपादयति, स एष कालज्ञताविनयः उक्तः कालज्ञताविनयः, संप्रति सर्वत्रानुलोमतालक्षणं विनयमाह । छ।। सामायारिपरूवणनिदेसे चेव बहुविहे गुरुजो, एमेयत्ति तहत्तिय, सव्वत्थ णुलोमयाएसा॥भा०८४॥
गुरुणो इत्यत्र कर्तरि षष्ठी, गुरोः सामाचारीप्ररूपणे किमुक्तं भवति, इच्छामिथ्यादिरूपायां तस्यां सामाचार्यो गुरुणा प्ररूप्यमाणायां एवमेतत् यथा भगवंतो वदंति नान्यथेति प्रतिपत्तिस्तथा बहुविधे बहुप्रकारे निर्देशे तत्कर्त्तव्यताज्ञापनलक्षणे गुरोर्गुरुणा क्रियमाणे या तथेति वचनतः कर्त्तव्यतया च प्रतिपत्तिरेषा सर्वापि सर्वानुलोमता नाम विनय उपसंहारमाह
लोगोवयारविणओ, इय एसो वण्णितो सपक्खंमि,
श्रासज्ज कारणं पुण कीरइ जइणा विपक्खवि ॥ भा० ८५॥ इति एवमुक्तेन प्रकारेण एष लोकोपचारविनयः स्वपक्षे सुविहितलचणे वर्णितः आसाद्य कारणं विपुनर्विपक्षेपि
For Private and Personal Use Only